📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः १०
Page 1
Download 📥
________________ श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०१ ॥ ॥ॐ ॥ षष्ठेऽध्याये ध्यानयोग उक्तः । नवमान्ते च 'मन्मना' (९.३४) इत्यादिना तद्ध्यानं स्मारितम् । तच्च ध्येयसापेक्षम् । अतो ध्यानार्थं भगवद्विभूतिरूपाणि अत्राध्याये अग्रे ’हन्त ते कथयिष्यामि' इत्यादिना प्राचुर्येण वक्ष्यन्नादौ बुद्ध्यादीनां महर्ष्यादीनां सामर्थ्यातिशयोपेततया' निर्माणरूपं विशेषकारणत्वं च भगवतो वक्ति । यद्यपि 'भोक्तारं यज्ञतपसां' (५.२९) इत्यादिना पञ्चमान्तादौ ध्येयमुक्तम् । तथाऽपि विशिष्टाधिकारिणां भगवद्विभूतय उपास्या इति तदुक्तिरत्रेति । उक्तरूपविशेषकारणत्वमपि विशिष्टाधिकारिध्येयमिति तस्याप्यत्रोक्तिः । ननु विभूतिरूपाण्यपि 'रसोऽहमप्सु कौन्तेय' (७.८) इत्यादिना "अहं ऋतुः” (९.१६) इत्यादिना चोक्तान्येव । सत्यम् । अत्र विस्तरेणोच्यन्त इत्यदोषः । अत एवास्य विभूत्यध्याय इति व्यपदेशः । तदुक्तेरेव बहुत्वेनैकवाक्यता चाध्याभूतिशब्दार्थमग्रे वक्ष्यामः । तत्र पार्थस्य श्रोतृत्वसंपत्तिप्रतिपादनाय तद्विशेषणोक्तिपूर्व संबोध्य प्रतिजानीते ॥ भूय एवेति । हे महाबाहो भूय एव पुनरेव मे परमं वचः माहात्म्यप्रतिपादकं वचनं शृणु श्रुत्वा तत्र निष्ठां कुरु । प्रीयमाणाय मद्वचः श्रुत्वा सन्तोषं प्राप्नुवते । अनेन श्रोतृत्वसंपत्तिरुक्ता । ते तुभ्यं हितकाम्यया हितेच्छया वक्ष्यामीति ॥१०.१॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०.२ ॥ प्रतिज्ञातमहिमानमाह ॥ न म इति । सुरगणा महर्षयश्च मे प्रभवं प्रभावं महिमानं न विदुः प्रभवमुत्पत्तिं मदधीनामुत्पत्तिं जगत इति योज्यम् । न विदुः न जानन्ति । देवादिजगतो भगवदधीनामुत्पत्तिं सुरगणादयो न जानन्ति । किमुतान्य इत्यर्थः । यद्वा मे प्रभवं ममोत्पत्तिं सुरगणादयो न विदुरित्यर्थः । भगवन्महिमवज्जगदुपतिवच्च १